Sunday 9 October 2016

विश्वजालसंवादोऽध्यायः

अर्जुन उवाच।।
लिखित्वाऽपि दीर्घलेखं
रोच्यभावं न प्राप्यते ।
भग्नह्रदयः, हतोत्साहः
निपुणफलकं त्यजाम्यहम् ।।

दृष्ट्वा भग्नं गुडाकेशं
वदति वाक्यं च केशव।
विश्वजाले भाषणार्थं
त्रीणि सूत्राणि संस्मरेत् ।।

अभिव्यक्तिं रोच्यमानाः
प्रेषयन्ति प्रतिक्रियान् ।
रोच्यमानाः अशक्तास्तु
एकमेकं वदन्ति च।

अपव्यक्तिः विरुद्धाश्च
अस्ति येषां मतिर्जुन।
न श्लाघ्यंति त्रिकालेऽपि
ध्रुवा नीतिर्मतिर्मम।।

प्राप्ते वा, न प्राप्ते वा
किमप्यर्थाः प्रतिक्रियाः ।
विश्वजाले कुरू योग्यं
अनिरुद्धं मतार्पणम् ।।

इति विश्वजालसंवादोऽध्यायः ।।

- रास्तेकुलोत्पन्नो अनिरुद्धः